"गः" इति। "आतो धातोः"
६।४।१४० इत्याकारलोपं कृत्वा "गै शब्दे" (धा।पा।९१७) इत्यस्यायं निर्देशः। अत एवाह-- "गायतेः"इति। ननु च "गामादाग्रहणेष्वविशेषणः" (व्या।प।१२४) इति "गाङ् गतौ" (धा।पा।
९५०) इत्यास्यपि ग्रहणेन भवितव्यम्? नैतत्; यस्माद् गाथक इति थकन्प्रत्ययान्तेन गायत्यर्थविशेष एव शिल्पिनि कर्त्तृत्वं विज्ञायते; न तु गाङर्थविषये। थकनो नकार आद्युदात्तार्थः॥